|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.240. अध्यायः 240
Mahabharata - Vana Parva - Chapter Topics
दुर्योधनेन घोषयात्राव्याजेनानुजादिभिः सहद्वैतवनंप्रतिरामनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैसंपायन उवाच। 3-240-0x(2591)(25334)
धृतराष्ट्रं ततः सर्वेददृशुर्जनमेजय।
दृष्ट्वा सुखमथो राज्ञः पृष्टा राज्ञा च भारत ॥ 3-240-1(25335)
ततस्तैर्विहितः पूर्वं संगवो नाम वल्लवः।
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् ॥ 3-240-2(25336)
अनन्तरं च राधेयः शकुनिश्च विशांपते।
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् ॥ 3-240-3(25337)
रमणीयेषु देशेषु घोषाः संप्रति कौरव।
स्मारणे समयः प्राप्तो वत्सानामपि चाङ्कनम् ॥ 3-240-4(25338)
मृगया चोचिता राजन्नस्मिन्काले सुतस्यते।
दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ॥ 3-240-5(25339)
धृतराष्ट्र उवाच। 3-240-6x(2592)
मृगया शोभना तात गवां हि समवेक्षणम्।
विस्रम्भस्तु न गन्तव्यो वल्लवानामिति स्मरे ॥ 3-240-6(25340)
ते तु तत्रनरव्याघ्राः समीप इति नः श्रुतम्।
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् ॥ 3-240-7(25341)
छद्मना निर्जितास्ते तु कर्शिताश्च महावने।
तपोनित्याश्च राधेय समर्थाश्च महारथाः ॥ 3-240-8(25342)
धर्मराजो न संक्रुद्ध्येद्भीमसेनस्त्वमर्षणः।
यज्ञसेनस् दुहिता तेज एवतु केवलम् ॥ 3-240-9(25343)
यूयंचाप्यपराध्येयुर्दर्पमोहसमन्विताः।
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः ॥ 3-240-10(25344)
अथवा सायुधावीरा मन्युनाऽभिपरिप्लुताः।
सहिता बद्धनिस्त्रिशा दहेयुः शस्त्रतेजसा ॥ 3-240-11(25345)
अथ यूयं बहुत्वात्तान्नारभध्वं कथंचन।
अनार्यं परमं तत्स्यादशक्यं तच्च वै मतम् ॥ 3-240-12(25346)
उषितो हि महाबाहुरिन्द्रलोके धनंजयः।
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनं ॥ 3-240-13(25347)
अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा।
किं पुनः सकृतास्त्रोऽद्य न हन्याद्वो महारथः ॥ 3-240-14(25348)
अथवा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ।
उद्विग्रवासा विस्रब्धा दुःखं तत्रगमिष्यथ ॥ 3-240-15(25349)
अथवा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे।
तदबुद्धिकृतंकर्म दोषमुत्पादयेच्च वः ॥ 3-240-16(25350)
तस्मादन्ये नरा यान्तु स्मारणायाप्तकारिणः।
न स्वयं तत्रगमनं रोचये तव भारत ॥ 3-240-17(25351)
शकुनिरुवाच। 3-240-18x(2593)
धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि।
तेन द्वादशवर्षाणि वस्तव्यानीति भारत ॥ 3-240-18(25352)
अनुवृत्ताश्च रतं सर्वे पाण्डवा धर्मचारिणः।
युधिष्ठिरस्तु कौन्तेयो न नः कोपं करिष्यति ॥ 3-240-19(25353)
मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम्।
स्मारणं तु चिकीर्षामो न तु पाण्डवदर्सनम् ॥ 3-240-20(25354)
न चानार्यसमाचारः कश्चित्तत्र भविष्यति।
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः ॥ 3-240-21(25355)
वैशम्पायन उवाच। 3-240-22x(2594)
एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः।
दुर्योधनं सहामात्यमनुजज्ञे न कामतः ॥ 3-240-22(25356)
अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा।
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः ॥ 3-240-23(25357)
दुःशासनेन च तथा सौबलेन च धीमता।
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः ॥ 3-240-24(25358)
तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः।
पौराश्चानुययुः सर्वेसहदारा वनं च तत् ॥ 3-240-25(25359)
अष्टौ रथसहस्राणि त्रीणि नागायुतानि च।
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः ॥ 3-240-26(25360)
शकटापणवेशाश्च वणिजो वन्दिनस्तथा।
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः ॥ 3-240-27(25361)
ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः।
प्रावृषीव महावायोरुत्थितस्य विशांपते ॥ 3-240-28(25362)
गव्यूतिमात्रेन्यवसद्राजा दुर्योधनस्तदा।
प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ॥ 3-240-29(25363)
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 240 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-240-2 समङ्गो नाम इति झ. पाठः ॥ 3-240-4 स्मारणे स्मरणहेतौ कर्मणि गवां संख्यापूर्वकं वयोवर्णजातिनाम्नां लेखने ॥ 3-240-7 ते पाण्डवाः ॥ 3-240-9 तेजोऽग्निरेव ॥ 3-240-27 वेशो वेश्याजनाश्रयः ॥ 3-240-29 गव्यूतिः क्रोशद्वयम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|